जो यह कहते हैं कि ब्राह्मण के लिए बलि नहीं वह भी उचित नहींं #आगमिक #ब्राह्मण जो कि #शाक्त हैं उन्हें तो #बलि देनी चाहिए, #वैदिको को भी #चण्डी को #कूष्माण्ड तो देना ही चाहिए.........
#ब्राह्मणेनमाषादिमिश्रान्नेनकूष्माण्डेनवाकार्यं,
धर्मसिन्धु निर्णयसिन्धु में ब्राह्मणों को माषादि मिश्रित अन्न वा कुष्माण्ड देने को कहा है। अत: यहां जो #कुलपरम्परा से प्राप्त हो वह उचित है। #ब्राह्मण को पशु का #स्वयं #बलि
हेतु घात न कर #क्षत्रियादि से घात करवाना चाहिए......
#शास्त्रवचनानि...............
तद् यथैवादाे मनुष्यराज अागते अन्यस्मिन् वा अर्हति उक्षाणं वा वेहतं वा क्षदन्ते-- #ऋग्वेद-एेतरेयब्राह्मण ३।४ ।
स्वाहा च्छागम् अश्विभ्यां स्वाहा मेषं सरस्वत्यै स्वाह ऋषभम् इन्द्राय स्वाहा--#माध्यन्दिनीय-शुक्ल-यजुर्वेदसंहिता २१।४०
यदश्वस्य क्रविषाे मक्षिकाश यद् वा स्वराै स्वधिताै रिप्तमस्ति ।
यद्धस्तयाेः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ।। #ऋग्वेदसंहिता १।१६२।९, मा. शुक्लयजुर्वेदसंहिता २५।३२
ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर् निर्हरेति ।
ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर् न इन्वतु॥-- #ऋग्वेदसंहिता १।१६२।१२, मा. शुक्लयजुर्वेदसंहिता २५।३५
यन्नीक्षणं माँस्पचन्या उखाया या ते पात्राणि यूष्ण अासेचनानि
उष्मण्या पिधानाश् चरूणामङ्काः सूनाः परिभूषन्त्यश्वम् ।।-- #ऋग्वेदसंहिता १।१६२।१३, मा. शुक्लयजुर्वेदसंहिता २५।३६
चतुस्त्रिंशद् वाजिनाे देवबन्धाेर् वङ्क्रीरश्वस्य स्वधितिः समेति।
अच्छिद्रा गात्रा वयुना कृणाेत परुष्परुरनुघुष्या विशस्त ।।-- #ऋग्वेदसंहिता १।१६२।१८, मा. शुक्लयजुर्वेदसंहिता २५।४१
न वा उ एतन् म्रियसे न रिष्यसि देवाँ इदेषि पथिभिः सुगेभिः ।
हरी ते युञ्जा पृषती अभूताम् उपास्थाद् वाजी धुरि रासभस्य ।।-- ऋग्वेदसंहिता १।१६२।२१, मा. शुक्लयजुर्वेदसंहिता २५।४४
मांसाैदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वराै जनयितवा अाैक्ष्णेन वार्षभेण वा ।
-- शुक्लयजुर्वेद-शतपथब्राह्मण-बृहदारण्यकाेपनिषद् ६।४।१८
मांसमिश्रमाेदनं मांसाैदनम् तन्मांसनियमार्थमाह अाैक्षेण वा मांसेन, उक्षा सेचनसमर्थः पुङ्गवस्तदीयं मांसम्, ऋषभस्तताेऽप्यधिकवयास्तदीयमार्षभं मांसम्-- शङ्करभगवत्पादकृत बृहदारण्यकाेपनिषद्वृत्ति ६।४।१८
छागाेस्रमेषाः पश्वभिधानाद् यथालिङ्गम् ।--
कात्यायनश्राैतसूत्र २०।७।१९
मृतम् ब्राह्मणान् भाेजयेत् ।--कात्यायनश्राैतसूत्र २३।४।२३
न अमांसाे मधुपर्काे भवति--ऋग्.अाश्वलायनगृह्यसूत्र १।२४।२६
न अमांसः अर्घः भवति अधियज्ञमधिविवाहम् --
#ऋग्. काैषीतकिगृह्यसूत्र २।१५
एतावद् गाेरालम्भनस्थानम् अतिथिः पितराे विवाहश् च--कृष्णयजु. अापस्तम्बगृह्यसूत्र ३।१०
न अमांसाे मधुपर्क इति श्रुतिः--कृष्णयजु.मानवमैत्रायणीय गृह्यसूत्र १।९।२२
न त्वेव अमांसः अर्घः स्याद् अधियज्ञमधिविवाहम् कुरूतेत्येव ब्रूयात् --शुक्लयजु. #पारस्करगृह्यसूत्र १।३।२९-३० ।
न अलाेहिताे मधुपर्काे भवति--अथर्व.-काैशिकगृह्यसूत्र ९२।१६
भक्ष्याै तु धेन्वनडुहाै मेध्याै वाजसनेयके विज्ञायते ।--वसिष्ठधर्मसूत्र १४।४६
धेन्वनडुहयाेर् भक्ष्यं मेध्यमानडुहमिति वाजसनेयकम् ।-- अापस्तम्बधर्मसूत्र १।५।३।३०-३१
यज्ञशिष्टं मांसं भक्षणीयम् ।--वैखानसगृह्यसूत्र ९।१५, वैखानसधर्मसूत्र २।१५
नियुक्तस् तु यतिः श्राद्धे दैवे वा मांसमुत्सृजेत् ।
यावन्ति पशुराेमाणि तावन् नरकमृच्छति।।--वसिष्ठधर्मसूत्र ११।३४
अभक्ष्याे ग्राम्यकुक्कुटः अभक्ष्याे ग्राम्यशूकरः, गम्यत एतदारण्याे भक्ष्य इति ।
--पाणिनीयव्याकरण अष्टाध्यायी-पातञ्जलभाष्य पस्पशाह्निक ।
शमिता च शब्दभेदात् ।--जैमिनीयधर्ममीमांसासूत्र ३।७।२८
वङ्क्रीणां तु प्रधानत्वात् समासेनाऽभिधानं स्यात् प्राधान्यमध्रिगाेस्तदर्थत्वात् ।-- जैमिनीयधर्ममीमांसासूत्र ९।४।८
अश्वस्य चतुस्त्रिंशत् तस्य वचनाद् वैशेषिकम् ।--जैमिनीयधर्ममीमांसासूत्र ९।४।१७
वनिष्ठुसन्निधानेन उरूकेण वपाभिधानम् ।--जैमिनीयधर्ममीमांसासूत्र ९।४।२२
अशुद्धमिति चेन्न शब्दात् ।--बादरायणीय ब्रह्ममीमांसासूत्र ३।१।२५
मधुपर्के च यज्ञे च पितृ-दैवतकर्मणि ।
अत्रैव पशवाे हिंस्या नाऽन्यत्रेत्यब्रवीन् मनुः ॥
एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः ।
अात्मानं च पशुं चैव गमयत्युत्तमां गतिम् ॥
#मनुस्मृति, अध्याय ५ श्लाेक ४१-४२
मांसाशनं ये कुर्वन्ति तैः कार्यँ पशुहिंसनम्।
महिषाऽजवराहाणां बलिदानं विशिष्यते॥
देव्यग्रे निहता यान्ति पशवः स्वर्गमव्ययम्।
न हिंँसा पशुजा तत्र निघ्नतां तत्कृतेऽनघ॥
#देवीभागवतमहापुराण, स्कन्ध ३ अध्याय २६ श्लोक ३२ तथा ३३ ।
अामन्त्रितश् च यः श्राद्धे दैवे वा मांसमुत्सृजेत् ।
यावन्ति पशुराेमाणि तावन् नरकमृच्छति ।।
पद्मपुराण, स्वर्गखण्ड ५६।४२
न किञ्चिद् वर्जयेच् छ्राद्धे नियुक्तस्तु द्विजाेत्तमः ।
न मांसं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत् ।।
कूर्ममहापुराण २।२२।६७
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्य-हारिणकाैरभ्र-शाकुन-च्छाग-पार्षतैः।।
एेण-राैरव-वाराह-शाशमांसैर्यथाक्रमम्।
मासवृद्ध्यापि तुष्यन्ति दत्तैरिह पितामहाः ।।
#गरुडमहापुराण १।९९।३७-३८
पञ्च पञ्च नखा भक्ष्या ब्रह्म-क्षत्रेण राघव ।
शल्यकः श्वाविधाे गाेधा शशः कूर्मश्च पञ्चमः ।। #वाल्मीकिरामायण ४।१७।३७ (३९)
पञ्च पञ्च नखा भक्ष्या ब्रह्म-क्षत्रस्य वै विशः ।
यथा शास्त्रं प्रमाणं ते माऽभक्ष्ये मानसं कृथाः ।।
#महाभारत शान्तिपर्व १४१।७०
विधिना वेददृष्टेन तद् भुक्त्वेह न दुष्यति ।
यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः ।।
#महाभारत अनुशासन पर्व ११६।१४
पशुहिंसादिसम्बन्धे यज्ञे तुष्यन्ति हि द्विजाः ।
तेभ्य एव हि यज्ञेभ्यः शाक्याः क्रुध्यन्ति पीडिताः ।।
-- मीमांसकशिराेमणि कुमारिलभट्टपाद, #जैमिनीय-धर्ममीमांसाशास्त्र-वार्त्तिक
यदि ह्यनादरेणैषां न कल्प्येताऽप्रमाणता ।
अशक्यैवेति मत्त्वाऽन्ये भवेयुः समदृष्टयः ।।
शाेभा-साैकर्य-हेतूक्ति-कलिकालवशेन वा ।
यज्ञाेक्तपशुहिंसादित्यागभ्रान्तिमवाप्नुयुः ।।
#कुमारिलभट्टपादकृत जैमिनीयधर्मीमांसातन्त्रवार्तिक
शाक्याेक्ताऽहिंसनं धर्माे न वा? धर्मः श्रुतत्वतः ।
न धर्माे नहि पूतं स्याद् गाेक्षीरं श्वदृताै धृतम् ।।
माधवाचार्यकृत जैमिनीयन्यायमाला
अथैकदा पितुः श्राद्धे इक्ष्वाकुः सुतमादिशत् ।
मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ।।--भागवत ९।९।६
चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम् ।
घ्नन्तं ततः पशून् मेध्यान् परीतं यदुपुङ्गवैः ।।--भागवत १०।६९।३५
No comments:
Post a Comment