#पार्थिवलिंग निर्माण में मृत्तिका का परिमाण का शास्त्रीय निर्देश 👇
मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् ।
एतदन्यन्न कुर्वीत कदाचिदपि पार्वति ! ॥
#पुनः
मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् ।
त्रिसूत्रस्य प्रमाणेन घटनं कारयेद्बुधः ॥
स्वांगुष्ठपर्वमाणन्तु कृत्वा लिङ्गं प्रपूजयेत् ।
मृदादिलिङ्गघटने प्रमाणं परिकीर्त्तितम् ।
फलमुक्तमवाप्नोति अन्यथा चेत्तदन्यथा ॥(६२७•त.तो.प्रा)
No comments:
Post a Comment